Gītārtha-Saṁgraha - Chapter 1 in Sanskrit

26 Jul 2021 |

Previous post in series :

Gītārtha-Saṁgraha - Maṅgala Verses in Sanskrit

Gītārtha-Saṁgraha - Chapter 1 in Sanskrit with english meaning of each word.

अथ प्रथमोऽध्यायः

विद्याविद्यात्मनोर्व्दयोरभिभाव्याभिभावकात्मकत्वं प्रदर्शयितुं प्रथमाध्यायप्रस्ताव: ।नह्यनुत्पन्नविद्यालेशावकाश उपदेशभाजनम्; नापि निर्मूलितसमस्ताविद्याप्रपञ्चः, एककोटिविश्रान्तस्य तु ततः कोटेश्च्यावयितुमशक्यत्वात् । अज्ञविपर्यस्तयोस्तु उपदेश्यत्वं यदुच्यते तत्व्कचिदेव ।तथात्वौन्मुख्योपदेष्टव्येऽर्थे सन्दिग्धतैव ।अत एव संशयनिर्णोदक एवोपदेश इति विद्याविद्याङ्गसंघट्टमय: संशय उच्यते । देवासुरसृष्टिश्च विद्याविद्यामयीति तत्कथोपक्रमणमेव मोक्षमार्गोपदेशनम् । ज्ञानं च प्रधानं, कर्माणि चापहर्तव्यानीति कर्मणां ज्ञाननिष्ठतया क्रियमाणानामपि न बन्धकत्वमिति ज्ञानप्राधान्यम्, नान्तरीयकत्वं तु कर्मणाम्; न तु ज्ञानकर्मणी समशीर्षकतया समुच्चीयेते इत्यत्र तात्पर्यम् । एवमेव च मुनेरभिप्रायं यथास्थानं प्रतिपादयिष्याम इति किमन्यैस्तत्त्वदर्शनविघ्नमात्रफलैर्वाग्जालै:॥

Sanskrit Word Transliteration English Meaning
प्रदर्शयति pradarśayati show / describe/ teach / explain
प्रस्ताव prastāva proposal / introduction
निर्मूल nirmūla rootless / baseless
कोटि koṭi highest point
विश्रान्त viśrānta taking rest / stopped
ततः tataḥ therefore
अज्ञ ajña ignorant
विपर्यस्त viparyasta reversed / opposite / inverted
तथात्व tathātva such a state of things / such a condition / being so
सन्दिग्ध sandigdha ambiguous / doubtful about / uncertain
संशय saṃśaya doubt
सङ्घट्ट saṅghaṭṭa rubbing or clashing together
क्रियमाण kriyamāṇa being done
नान्तरीयक nāntarīyaka not external / contained or inherent in
सम sama match
शीर्षक śīrṣaka title / verdict
समुच्च samucca high
तात्पर्य tātparya sense / meant

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्षत्रसमागमे ।
मामका: पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥

Sanskrit Word Transliteration English Meaning
समागम samāgama meeting / assembly of
मामक māmaka my / mine / selfish / greedy

अत्र केचिव्द्याख्याविकल्पमाहु:- कुरूणां - करणानां यत्क्षेत्रं-अनुग्राहकम्, अत एव सांसारिकधर्माणां सर्वेषां क्षेत्रं-उत्पत्तिनिमित्तत्वात्,

‘अयं स परमो धर्मो यद्योगेनात्मदर्शनम्’ (याज्ञव. स्मृ.)

इत्यस्य च धर्मस्य क्षेत्रम्, समस्तधर्माणां क्षयादपवर्गप्राप्त्या त्राणभूतम् तदधिकारि शरीरम् । सर्वक्षत्राणां क्षदेर्हिंसार्थत्वात् परस्परवध्यघातकभावेन वर्तमानानां रागवैराग्यक्रोधक्षमाप्रभृतीनां समागमो यत्र, तस्मिन् स्थिता ये मामका:- अविद्यापुरुषोचिता अविद्यामया: सङ्कल्पा:। पाण्डवा:- शुद्धविद्यापुरुषोचिता विद्यात्मन:। ते किमकुर्वत- कै: खलु के जिता इति यावत्। ममेति कायतीति मामक: अविद्यापुरुष:। पाण्डु: शुद्ध: ॥१॥

Sanskrit Word Transliteration English Meaning
अत्र atra here / in this place
अनुग्राहक anugrāhaka kind
उत्पत्ति utpatti production / birth
निमित्तत्व nimittatva state of being a cause / instrumentality / causality
अयम् { इदम् } ayam {idam} this
त्राण trāṇa protection / shelter
सार्थ sārtha wealthy / useful / troop
वध्यघातक vadhyaghātaka executing criminals
राग rāga vehement desire of / passion
यत्र yatra wherever / in or to which place
तस्मिन् tasmin in that
विध्यात्मक vidhyātmaka consisting of a positive injunction
खलु khalu verily / Is it not?
जित jita won
यावत् yāvat up to / until / as soon as

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥

Sanskrit Word Transliteration English Meaning
दृष्ट्वा dṛṣṭvā having seen
अनीक anīka army / chief
व्यूढ vyūḍha wide
ब्रवीति bravīti speak

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥

Sanskrit Word Transliteration English Meaning
पश्यति { दृश् } paśyati { dṛś} view / see / examine
महती mahatī great
चमू camū army or division of an army
तव tava yours
धीमत् dhīmat learned

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथ: ॥४॥

Sanskrit Word Transliteration English Meaning
अत्र atra here / in this place
शूर śūra brave man
महेष्वास maheṣvāsa great archer
युधि yudhi battle / fighting
युयुधान yuyudhāna warrior

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्तिभोजश्च शैव्यश्व नरपुङ्गव: ॥५॥

Sanskrit Word Transliteration English Meaning
नरपुङ्गव narapuṅgava excellent hero / man-bull

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: ॥६॥

Sanskrit Word Transliteration English Meaning
विक्रान्त vikrānta strong / warrior

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥७॥

Sanskrit Word Transliteration English Meaning
अस्माकम् asmākam our
सञ्ज्ञार्थम् sañjñārtham for the sake of a sign

सैन्ये महति ये सर्वे नेतारः शूरसम्मता: ।
भवान् भीष्मश्च कर्णश्च कृप: शल्यो जयद्रथः
अश्वत्थामा विकर्णश्च सौमदत्तिश्च वीर्यवान् ।॥८॥

Sanskrit Word Transliteration English Meaning
सम्मत sammata thought highly of

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविता: ।
नानाशस्त्रप्रहरणा नानायुद्धविशारदा: ॥९॥

Sanskrit Word Transliteration English Meaning
मदर्थे madarthe me
त्यक्त { त्यज् } tyakta { tyaj } abandoned
विशारद viśārada skilled or proficient in

किंवानेन परिगणनेन, इदं तावद्वस्तुतत्त्वमित्याह

Sanskrit Word Transliteration English Meaning
परिगण parigaṇa house
तावद् tāvad during that time / meanwhile
तत्त्व tattva true principle

अपर्याप्तं तदस्माकं बल भीमाभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् ॥१०॥

Sanskrit Word Transliteration English Meaning
अपर्याप्त aparyāpta unbounded / insufficient

भीमसेनाभिरक्षितं पाण्डवीयं बलम् अस्माकमपर्याप्तं-जेतुमशक्यम्, अथवा-अपर्याप्तं-कियत्तदस्मद्वलस्येत्यर्थ:। इदं तु भीष्माभिरक्षितं बलमस्माकं संबन्धि एतेषां-पाण्डवानां पर्याप्तं-जेतुं शक्यम्, यदि वा पर्याप्तं-बहु न समरे जय्यमेतैरिति ॥१०॥

Sanskrit Word Transliteration English Meaning
जेतुकाम jetukāma desirous of victory
शक्य śakya possible
समर samara battle / war
जय्य jayya to be conquered or gained

अयनेषु च सर्वेषु यथाभागमवस्थिता: ।
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव हि ॥११॥

Sanskrit Word Transliteration English Meaning
यथाभागम् yathābhāgam each in his respective place or in the proper pleasure
स्थित sthita standing / staying / existing

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चै: शङ्खं दध्मौ प्रतापवान् ॥१२॥

Sanskrit Word Transliteration English Meaning
विनादयति { विनद् } vinādayati { vinad} fill with noise or cries
दाध्मायते { धम् } dādhmāyate { dham} vigorously blowing or kindling

ततः शङ्खाश्च भीर्यश्च पणवानकगोमुखा: ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥१३॥

Sanskrit Word Transliteration English Meaning
ततः tataḥ therefore
भीर bhīra intimidating
पणव paṇava small drum or a kind of cymbal / kind of metre
गोमुख gomukha kind of musical instrument
हन्यते { हन् } hanyate { han} be struck or killed

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु: ॥१४॥

Sanskrit Word Transliteration English Meaning
स्यन्दन syandana war-chariot

पाञ्जजन्यं हृषीकेशो देवदत्तं धनञ्जय: ।
पौण्ड्रं दध्मौ महाशङ्ंख भीमकर्मा वृकोदर: ॥१५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर: ।
नकुलः सहदेवश्व सुघोषमणिपुष्पकौ ॥१६॥

Sanskrit Word Transliteration English Meaning
सुघोष sughoṣa pleasant sound or cry

काश्यश्च परमेष्वास: शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: ॥१७॥

पाञ्चालश्च महेष्वासो द्रौपदेयाश्च पञ्ज ये ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मु: पृथक् पृथक् ॥१८॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥

Sanskrit Word Transliteration English Meaning
घोष ghoṣa sound
धार्तराष्ट्र dhārtarāṣṭra kuru / son of dhṛtarāṣṭra
दारयते { दॄ } dārayate { dṝ} scatter
तुमुल tumula violent
व्यनुनादयति { व्यनुनद् } vyanunādayati { vyanunad} fill with noise or cries

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वज: ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ॥२०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।

Sanskrit Word Transliteration English Meaning
अथ atha now
प्रवृत्त pravṛtta set out from / engaged in
सम्पात sampāta point of intersection / taking place

अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ ॥२१॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥२२॥

Sanskrit Word Transliteration English Meaning
योद्धुकाम yoddhukāma wishing to fight
समुद्यम samudyama endeavour / effort

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: ॥२३॥

Sanskrit Word Transliteration English Meaning
प्रियचिकीर्षा priyacikīrṣā desire of doing a kindness to

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत! ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥

Sanskrit Word Transliteration English Meaning
गुडाकेश guḍākeśa hero arjuna

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥२५॥

Sanskrit Word Transliteration English Meaning
महीक्षित् mahīkṣit earth-ruler / king
समवेत samaveta united / assembled

तत्रापश्यत्स्थितान्पार्थ: पितृनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥२६॥
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ॥२७॥

तान्समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ।
कृपया परयाविष्टो सीदमानोऽब्रवीदिदम् ॥२८॥

अर्जुन उवाच

दृष्ट्वे मान्स्वजनान्कृष्ण युयुत्सून्समुपस्थितान् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२९॥

Sanskrit Word Transliteration English Meaning
युयुत्सु yuyutsu wishing to fight
समुपस्थित samupasthita ready for
परिशुष्यति pariśuṣyati wither

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्त्रंसते हस्तात्त्वक्चैव परिदह्यते ॥३०॥

Sanskrit Word Transliteration English Meaning
वेपथु vepathu trembling / tremor
रोमहर्ष romaharṣa thrill
जायते jāyate take place / happen
परिदह्यते paridahyate burn

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ! ॥३१॥

Sanskrit Word Transliteration English Meaning
शक्नोति śaknoti be able / can
निमित्त nimitta omen / cause

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।
न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च ॥३२॥

Sanskrit Word Transliteration English Meaning
हत्वा hatvā having been killed
काङ्क्षा kāṅkṣā desire

किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥३३॥

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥३४॥

मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ।
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ! ॥३५॥
अपि त्रैलोक्यराज्यस्य हेतोः किंमु महीकृते ।

Sanskrit Word Transliteration English Meaning
श्वशुर śvaśura father-in-law
स्याल syāla brother-in-law
हन्तुमनस् hantumanas intending to kill
घ्न ghna striking with / killing
हेतो heto for the sake of

अमी आचार्यादय:, इति विशेषबुद्ध्या बुद्धावारोप्यमाणा वधकर्मतयावश्यं पापदायिन:। तथा भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते, इति बुद्ध्या क्रियमाणं युद्धेष्ववध्यहननादि, तदवश्यं पातककारीति पूर्वपक्षाभिप्रायः। अत एव ‘स्वधर्ममात्रतयैव कर्माण्यनुतिष्ठ, न विशेषधिया’ - इत्युत्तरं दास्यते ॥३५॥

Sanskrit Word Transliteration English Meaning
पातक pātaka crime
कारित kārita caused to be made or done

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन !॥३६॥
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ॥३७॥

निहत्येति, आततायिनां हनने पापमेव कर्तृ । अतोऽयमर्थ: पापेन तावदेतेऽस्मच्छत्रवो हता: परतन्त्रीकृता:, तांश्च निहत्यास्मानपि पापमाश्रयेत् । पापमत्र लोभवशात् कुलक्षयादिदोषादर्शनम् ॥ ३६॥

अत एव कुलक्षयादिधर्माणामुपक्षेपं करोति अर्जुन: ‘स्वजनं हि कथं’ इत्यादिना

Sanskrit Word Transliteration English Meaning
आततायिन् ātatāyin one whose bow is drawn to take another’s life
हनन hanana killing
परतन्त्र paratantra be slave of another

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव !।
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ॥३८॥
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ।
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ॥३९॥
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ! ।

Sanskrit Word Transliteration English Meaning
पातक pātaka crime
ज्ञेय jñeya to be known

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ॥४०॥
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ।
अधर्माभिभवात् ! कृष्ण प्रदुष्यन्ति कुलस्त्रियः ॥४१॥

Sanskrit Word Transliteration English Meaning
क्षय kṣaya decay
कृत्स्न kṛtsna all / whole
प्रदुष्यति praduṣyati commit an offence against / become faithless

स्त्रीषु दुष्टासु वार्ष्णेय ! जायते वर्णसङ्करः ।
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ॥४२॥
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ।
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ॥४३॥
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ।

Sanskrit Word Transliteration English Meaning
नरकायते narakāyate resemble or be similar to hell
उत्साद utsāda vanishing

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ! ॥४४॥
नरके नियतं वासो भवतीत्यनुशुश्रुम ।

Sanskrit Word Transliteration English Meaning
उत्सन्न utsanna destroyed / in ruins

विशेषफलबुद्धद्या हन्तव्यादिविशेषबुद्धया च हननं महापातकमिति। एतदेव संक्षिप्याभिधातुं परितापातिशयसूचनायात्मगतमेवार्जुनो वचनमाह

Sanskrit Word Transliteration English Meaning
हन्त hanta expressing wonder or sorrow

अहो वत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५॥

Sanskrit Word Transliteration English Meaning
अहो aho Ah [implying joyful or painful surprise]
व्यवसित vyavasita done / resolution

वयमिति – कौरवपाण्डवभेदभिन्ना: सर्व एवेत्यर्थ: ॥४५॥

एवं सर्वेष्वविवेकिषु मम विवेकिन: किमुचितम्, उचित तावद्युद्धान्निवर्तनम; एतत्तूचिततरमित्याह


यदिमामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥४६॥

Sanskrit Word Transliteration English Meaning
प्रतीकार pratīkāra revenge
क्षेमतर kṣematara greater happiness / more comfortable state

सञ्जय उवाच

एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः॥४७॥

Sanskrit Word Transliteration English Meaning
रथोपस्थ rathopastha seat of a chariots
विसृज्य visṛjya to be sent out or let go / to be produced or effected
सशर saśara together with an arrow
चाप cāpa bow
संविग्न saṃvigna fallen into

अत्र संग्रहश्लोकः

विद्याविद्यो भयाघातसंघट्ट विवशीकृत:
युक्त्या द्वयमपि त्यक्त्वा निर्विवेको भवेन्मुनि: ॥१॥

Sanskrit Word Transliteration English Meaning
विद्याविद् vidyāvid learned
सङ्घट्टा saṅghaṭṭā large creeper
विवशीकृत vivaśīkṛta checked
त्यक्त्वा tyaktvā having abandoned

इति श्रीमहामाहेश्वराचार्यवर्यराजानकाभिनवगुप्तपादविरचिते
श्रीमद्भवद्गीतार्थसंग्रहे प्रथमोऽध्याय: । १ । इति शिवम्


Next posts in series :

Gītārtha-Saṁgraha - Chapter 2 in Sanskrit

Meanings from Learnsanskrit

Reference: