Gītārtha-Saṁgraha - Chapter 2 in Sanskrit

03 Sep 2021 |

Previous post in series :

Gītārtha-Saṁgraha - Maṅgala Verses in Sanskrit
Gītārtha-Saṁgraha - Chapter 1 in Sanskrit

Gītārtha-Saṁgraha - Chapter 2 in Sanskrit with english meaning of each word.

अथ द्वितीयोऽध्यायः


सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
सीदमानमिदं वाक्यमुवाच मधुसूदनः ॥१॥

Sanskrit Word Transliteration English Meaning
विष्ट viṣṭa filled or accompanied with
सीदति sīdati despair

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥

Sanskrit Word Transliteration English Meaning
कुतस्त्य kutastya coming from where?
कश्मलमय kaśmalamaya filled with or producing distress of mind
विषम viṣama dangerous / uneven
समुपस्थित samupasthita arisen / appeared
अनार्यजुष्ट anāryajuṣṭa or possessed by non-Aryas

आदौ लोकव्यवहाराश्रयेणैव श्रीभगवानर्जुनं प्रतिबोधयति, क्रमात्तु ज्ञानं करिष्यतीति, अत: ‘अनार्यजुष्टम्’ इत्याह ॥२॥

क्लैव्यादिभिर्निर्भर्त्सनमभिदधदधर्मे तव धर्माभिमानोऽयमित्यादि दर्शयति

Sanskrit Word Transliteration English Meaning
आदौ ādau initially / at the beginning
क्रमात् kramāt gradually

मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥

Sanskrit Word Transliteration English Meaning
क्लैब्य klaibya cowardice
परन्तप parantapa destroying foes

अर्जुन उवाच

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४॥

Sanskrit Word Transliteration English Meaning
पूजार्ह pūjārha respectable / worthy of reverence or honour

गुरूनहत्वा हि महानुभावा-
ञ्छ्रेयश्चर्तुं भैक्ष्यमपीह लोके ।
न त्वर्थकामस्तु गुरून्निहत्य
भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥ ५॥

‘भीष्म द्रोणंच’ इत्यादिना, ‘भुञ्जीय भोगान्’ इत्यनेन च कर्मविशेषानु-सन्धानं फलविशेषानुसन्धानं च हेयतया पूर्वपक्षे सूचयति ॥५॥


नैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषाम-
स्ते नः स्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥

Sanskrit Word Transliteration English Meaning
कतर katara which of the two?
गरीयस् garīyas more precious or valuable
यद्वा … यदि वा { वा } yadvā … yadi vā { vā} if … or if [or]
जिजीविषा jijīviṣā desire to live

नैतद्विद्यः – इत्यनेन च कर्मविशेषानुसंधानमाह। निरभिसंधानं तावत्कर्म नोपपद्यते। न च पराजयमभिसंधाय युद्धे प्रर्वतते । जयोऽपि चायमनर्थ एव। तदाह ‘अहत्वा गुरून् भैक्षमपि चर्तुं श्रेय:’ । एतच्च निश्चेतुमशक्यम्, – किं जयं काङ्क्षाम: कि वा पराजयम्, जयोऽपि बन्धूनां विनाशात् ॥६॥


कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥

Sanskrit Word Transliteration English Meaning
कार्पण्य kārpaṇya weakness / poverty
सम्मूढचेतस् sammūḍhacetas troubled or infatuated in mind
यच्छ्रेष्ट yacchreṣṭa best possible
प्रपन्न prapanna surrendered

न हि प्रपश्यामि ममापनुद्या -
द्यः शोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥८॥

Sanskrit Word Transliteration English Meaning
प्रपश्यमान prapaśyamāna intelligent
अवाप्य avāpya having obtained

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।
न योत्स्यानिति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥

Sanskrit Word Transliteration English Meaning
परन्तप parantapa destroying foes
तूष्णीं tūṣṇīṃ silently

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये सीदमानमिदं वचः ॥१०॥

Sanskrit Word Transliteration English Meaning
प्रहसन prahasana sarcasm / satire

सेनयोरुभयोर्मध्ये - इत्यनेनेदं सूचयति - संशयाविष्टोऽर्जुना नैकपक्षेण युद्धान्निवृत्तो यत एवमाह स्म,– ‘शाधि मां त्वां प्रपन्नम्’ इति ॥१०॥

अत उभयोरपि ज्ञानाज्ञानयोर्म ध्यग: श्रीभगवतानुशिष्यते

Sanskrit Word Transliteration English Meaning
सूचयति sūcayati express / reveal / suggest
नैक naika not alone / various / numerous
निवृत्त nivṛtta having renounced or given up
प्रपन्न prapanna surrendered

श्री भगवानुवाच

त्वं मानुष्येणोपहतान्तरात्मा
विषादमोहाभिभवाद्धिसंज्ञ: ।
कृपागृहीतः समवेक्ष्य बन्धू-
भिप्रपन्नान्मुखमन्तकस्य ॥११॥

Sanskrit Word Transliteration English Meaning
गृहीत gṛhīta seized / caught
समवेक्षते { समवेक्ष् } samavekṣate { samavekṣ} consider

मानुष्यं-मनुष्यभाव:। अन्तकमुखं स्वयमेते प्रविष्य इति तव को बाध: ॥११॥

Sanskrit Word Transliteration English Meaning
स्वयम् svayam himself / oneself / itself / herself
प्रविष्ट praviṣṭa having entered

अशोच्यानन्वशोचस्त्वं प्रज्ञावन्नाभिभाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥१२॥

Sanskrit Word Transliteration English Meaning
अशोच्य aśocya not to be deplored
प्रज्ञावत् prajñāvat wise / intelligent
गतासु gatāsu dead

शोचितुमशक्यं कलेवरं-सदा नश्वरत्वात्, अशोचनार्हमात्मानं च शोचसि । न कश्चित् गतासु:-मृतः, अगतासु:-जीवन्वा शोच्योऽस्ति। तथाहि-आत्मा तावदविनाशी, नानाशरीरेषु संचरत: कास्य शोच्यता। न च देहन्तरसंचारे एव शोच्यता। एवं हि यौवनादावपि शोच्यता भवेत् ॥१२॥

एवमर्थद्वयमाह

Sanskrit Word Transliteration English Meaning
शोचित śocita worried
कलेवर kalevara body

नह्येवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥१३॥

Sanskrit Word Transliteration English Meaning
न जातु na jātu never
नेम nema time
जनाधिप janādhipa king

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१४॥

Sanskrit Word Transliteration English Meaning
जरा jarā age
मुह्यति muhyati be bewildered or perplexed

अहं हि नैव नासम् अपि तु आसम् । एवं त्वम् अमी च राजान: ॥१३॥ आकारान्तरे च सति यदि शोच्यता, तर्हि कौमारात् यौवनावाप्तौ किमिति न शोच्यते । यो धीर:, स न शोचति। धैर्यं च एतच्छरीरेऽपि यस्यास्था नास्ति, तेन सुकरम् । अतस्त्वं धैर्यमन्विच्छ ॥१४॥

अधीरास्तु मात्राशब्दवाच्यैरर्थैर्ये कृता: स्पर्शा इन्द्रियद्वारेणात्मना संबन्धा:, तत्कृता या: शीतोष्णसुखदु:खाद्यावस्था अनित्या: तास्वपि शोचन्ति। न त्वेवं धीरा इत्याह

Sanskrit Word Transliteration English Meaning
नैव { न एव } naiva { na eva} not at all / hardly
आसम् āsam I was
कौमार kaumāra adolescence / youth
धीर dhīra brave / strong

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ! ॥१५॥

Sanskrit Word Transliteration English Meaning
शीतोष्ण śītoṣṇa cold and hot
आगमापायिन् āgamāpāyin coming and going / transient
नित्यस्थ nityastha always abiding in

अथवा-मात्राभि:-इन्द्रियैर्येषां स्पर्शों न तु साक्षात्परमात्मना। आगमः-उत्पत्तिः।। अपायो-विनाश:। एतद्युक्रांस्तितिक्षस्व-सहस्व ॥१५॥

Sanskrit Word Transliteration English Meaning
अपाय apāya danger
सहस्वत् sahasvat victorious

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ! ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥१६॥

Sanskrit Word Transliteration English Meaning
व्यथयति vyathayati pain
कल्पते kalpate consider as

ननु यत एवागमापायिन एते सर्वे दशाविशेषास्तत एव शोच्यन्ते ? मैवम् । तथाहि, कोऽयमागमो नाम? उत्पत्तिरिति चेत् । सापि का ? असत आत्मलाभ: सा, इति त्वसत् । असत्स्वभावता हि निःस्वभावता निरात्मता। निरात्मा च निःस्वभावः कथं स स्वभावीकर्तु शक्य:; अनीलं हि न नीलीकर्तुं शक्यम्-स्वभावान्तरापत्ते-र्दुष्टत्वात् । तथा च शासत्रम्

‘नहि स्वभावो भावानां व्यावर्तेतौष्ण्यवद्रवे:’ ।

इति। अथ सत एवात्मलाभ उत्पत्ति:, तदा लब्धात्मनोऽस्य जात्वपि अनभावात् नित्यतैवेत्यागमे का शोच्यता। एवमपायोऽपि सतोऽसतो वा। असत्तावदसदेव । सत्स्वभावस्यापि कथमसत्तास्वभाव:। द्वितीये क्षणेऽसावसत्स्वभाव:–इति चेत्, आद्येऽपि तथा स्यादिति न कश्चिद्भाव: स्यात्; स्वभावस्यात्यागात्। अथ मुद्ररादिनास्य नाश: क्रियते। स यदि व्यतिरिक्त:, भावस्य किं वृत्तम्? न दृश्यते-इति चेत्, मा नाम दर्शि भाव:। न त्वन्यथाभूतः पटावृत इव। अव्यतिरिक्तस्तु नासावित्युक्तम् । तदेतत्संक्षिप्याह

Sanskrit Word Transliteration English Meaning
ननु nanu indeed / no doubt
दशाविशेष daśāviśeṣa any particular state
शोच्य śocya regrettable / unfortunate
अनील anīla white
व्यावर्त vyāvarta separating
आद्य ādya immediately preceding / first
कश्चिद् kaścid someone
व्यतिरिक्त vyatirikta withheld / with drawn / free from
किं वृत्तम्? kiṃ vṛttam? What is the news?

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१७॥

Sanskrit Word Transliteration English Meaning
विद्यते vidyate exist
उभय ubhaya in both ways

अथ च लोककवृत्तेनेदमाह - असतो - नित्यविनाशिन: शरीरस्य न भाव: - अनवरतमवस्थाभि: परिणामित्वात् । नित्यसतश्च - परमात्मनो नास्ति कदाचिद्विनाशोऽपरिणामधर्मत्वात् । तथा च वेद:

‘अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा’ इति। (बृ. आ. ४। ५। १४)

अनयो: सदसतोरन्त: - प्रतिष्ठापदं यत्रानयोर्विश्रान्ति: ॥ १७॥

यस्तत्त्वदर्शिभिदृष्ट: स खलु नित्योऽनित्यो वा - इत्याशङ्क्याह

Sanskrit Word Transliteration English Meaning
नित्य nitya eternal
विनाशिन् vināśin undergoing transformation
अनवरतम् anavaratam incessantly
अनयोः anayoḥ of these two
सदसत् sadasat good and bad / real and unreal
यस्त yasta entrusted
खलु khalu Is it not? / verily

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१८॥

Sanskrit Word Transliteration English Meaning
तद्विद् tadvid knowing that
ततम tatama that one

तुश्चार्थे । आत्मा च अविनाशी ॥१८॥ तुश्चार्थे । आत्मा च अविनाशी ॥१८॥


अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
विनाशिनोऽप्रमेयस्य तस्माद्युध्दयस्व भारत !॥१९॥

Sanskrit Word Transliteration English Meaning
प्रमेय prameya measurable

निरुपाख्यताकाले स्थूलविनाशयोगिन: तदन्यथानुपपत्तेरेव च विनाशिन: - प्रतिक्षणमवस्थान्तरभागिन: । यदुक्तं

अन्ते पुराणतां दृष्ट्वा प्रतिक्षणं नवत्वहानिरनुमीयते ।

इति । मुनिनापि

कलानां पृथगर्थानां प्रतिभेद: क्षणे क्षणे।
वर्तते सर्वभावेषु सौक्ष्म्यात्तु न विभाव्यते ॥

इति । पृथगर्थानामिति - पृथगर्थक्रियाकारित्वादिति यावत् । देहा अन्तवन्तो विनाशिनश्च। आत्मा तु नित्य:, यतोऽप्रमेय: । प्रमेयस्य तु जडस्य परिणामित्वं न त्वजडस्य चिदेकरूपस्य, स्वभावान्तरायोगात् । एवं देहा नित्यमन्तवन्तः, इति शोचितुमशक्या:। आत्मा नित्यमविनाशी, तेन न शोचनार्हः । तन्‍त्रेणायमके: कृत्यप्रत्ययो द्वयोरर्थयोर्मुनिना दर्शित ‘अशोच्यान्, इति ॥१९॥

Sanskrit Word Transliteration English Meaning
निरुपाख्य nirupākhya unreal
तदन्य tadanya other than that
प्रतिक्षणम् pratikṣaṇam every moment
भागिनः bhāginaḥ participants
अन्ते ante in the end
नवत्व navatva newness / novelty
पृथगर्थ pṛthagartha having separate or distinct meanings
प्रतिभेद pratibheda dividing
क्षणे क्षणे kṣaṇe kṣaṇe every moment
सर्वभाव sarvabhāva whole heart or soul / whole being or nature / complete satisfaction
सौक्ष्म्य saukṣmya fineness
विभाव्यते vibhāvyate appear
यावत् yāvat until

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥२०॥

Sanskrit Word Transliteration English Meaning
वेत्ति vetti know
मन्यते manyate think
विजानीते vijānīte know
हन्ति hanti kill
हन्यते hanyate be struck or killed

य एनमात्मानं देहं च हन्तारं हतं च वेत्ति, तस्य अज्ञानम, अत एव स बद्ध:॥ २०॥


न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥२१॥

Sanskrit Word Transliteration English Meaning
जायते jāyate happen
म्रियते mriyate die
भवित bhavita been
भूय bhūya being / becoming
हन्यमान hanyamāna being killed or slain

एतदेव स्फुटयति - नायं भूत्वा - इति । अयमात्मा न न भूत्वा भविता, अपितु भूत्वैव । अतो न जायते । न च म्रियते - यतो भूत्वा न न भविता, अपितु भवितैव ॥२१॥

Sanskrit Word Transliteration English Meaning
स्फुटयति sphuṭayati make clear or evident

Note : Reading in Progress

Meanings from Learnsanskrit

Reference: